यो दत्तश्श्रुतिगोचरस्त्रिगुणसूर्युक्तोऽगुणो मायया

वव्रे दुर्दमनाय शिष्टगतये भूयोऽवतारानसौ।

आद्यं निर्जरयोगिभिः परिवृतं ह्युत्पत्तिरक्षान्तकं

आत्रेयप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।१।

काषायाम्बरधारिणं करतलेदण्डं जटामण्डनं

भाले गन्धधरं कमण्डलुकरं मालावहन्तं गले।

नादे लीनहृदं स्मितास्यकमलं दिव्यं द्वितीयं यतिं

श्रीपादप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा ।२।

ॐकारं सहसा जनेरुपनयाद्विद्यां समुच्चारिणं

शूद्रास्येन वितण्डवादविबुधाहंकारविध्वंसिनम्।

तार्तीयं वरदं नृसिंहयतिनं साध्वीधवोज्जीविनं

वाग्देवीप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा ।३।

रुद्राक्षाभरणं सुगन्धितिलकं गौरं हरिन्मौलिनं

कौबेरीसुमधारिणं प्रतिमतं दम्भापहं तापहम् ।

पापेध्मौघदवं श्रुतिप्रमितिमद्वैतेन सङ्गोपिनं

माणिक्यप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।४।

आगर्भात्प्रभुशिक्षितं नरहरेः सूनुं मरीचिप्रभं

पौगण्डे श्रुतियोगकाव्यधिषणं सत्पीठसंरोहिणम्।

दिव्यार्चाविधिदं मनोहरयतिं देवालयस्थापकं

माणिक्यप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।५।

यं खण्डी कुलदेवतेति पितरौ भक्तार्थचिन्तामणिं

काशीज्ञा नवशङ्करश्च जगदुश्शक्तेस्सपर्यापरम्।

भक्तार्तावलिघोरवृत्रहरणं मार्तण्डसंज्ञं च तं

माणिक्यप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।६।

पीठस्थे गुरुमातुले च विमलां श्रद्धां वहन्तं सदा

वक्तारं निगमान्ततर्कविबुधं शिक्षासमारम्भिणम्।

पश्चात्पीठमुपाश्रितं गुरुपदां तं किङ्करं शङ्करं

माणिक्यप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।७।

भक्तापत्कुलनाशकं गुरुपदे मग्नं स्वबोधामृतैः

ज्ञानानन्दकरं निजाश्रितनृणां विद्यान्नसन्तर्पिणम्।

दीनार्तेषु कृपाकरं ह्यभयदं श्रीसिद्धराजं गुरुं

माणिक्यप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।८।

संस्थानस्य यशोऽवलक्षपटलं तन्वन्भ्रमन्तं क्षितौ

अद्वैतामृतवर्षणैस्स्वजनतातापापहं तं कविम्।

शिष्टैर्दिष्टविशिष्टमार्गसरणं श्रीज्ञानराजं गुरुं

माणिक्यप्रभुमाश्रयामि परमं शं नो भवेत्सर्वदा।९।

दत्तात्रेयपरम्परास्तुतिकरं कल्ये समुत्थाय यः

स्तोत्रं प्रांजलिरादरादनुदिनं ब्रूयात्प्रभुं संस्मरन्।

आयुष्यं शतवत्सरं सुखकरं लक्ष्मीं स्थिरां गौरवं

आरोग्यं बहुपुत्रदं प्रभुगुरौ शुद्धां धियं चाप्नुयात्।।१०।।

[social_warfare]